|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.319. अध्यायः 319
Mahabharata - Shanti Parva - Chapter Topics
याज्ञवल्क्येन जनकंप्रति सात्विकादिसारतम्यनिरूपणम्॥ 1॥ जनकेन याज्ञवल्क्यंप्रति तत्वकथनप्रार्थना च॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
याज्ञवल्क्य उवाच। 12-319-0x(6510)(78299)
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा॥ 12-319-1(78300)
अव्यक्तरूपो भगवाञ्शतधा च सहस्रधा।
शतधा सहस्रधा चैव तथा शतसहस्रधा॥ 12-319-2(78301)
कोटिशश्च करोत्येव प्रकृत्याऽऽत्मानमात्मना।
सात्विकरणोत्तमं स्थानं राजसस्येह मध्यमम्॥ 12-319-3(78302)
तामसस्वाधमं स्थानं प्राहुरध्यात्मचिन्तकाः।
केवलेनेह पुण्येन भतिभूर्ध्वामवाप्नुयात्॥ 12-319-4(78303)
पुण्यपापेन मानुष्यमधर्मेणाप्यघोगतिम्।
द्वन्द्वनेषां त्रयाणां तु सन्निपातं च तत्वतः॥ 12-319-5(78304)
सत्वस्य रजसश्चैव तमसश्च शृणुष्व मे।
सत्वस्य तु रजो दृष्टं रजसश्च तमस्तथा॥ 12-319-6(78305)
तमसश्च तथा सत्वं सत्वस्याव्यक्तमेव च।
अध्यक्तः सत्वसंयुक्तो देवलोकमयाप्नुयात्॥ 12-319-7(78306)
रवासत्वसमायुक्तो मानुषेषु प्रपद्यते।
रसस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते॥ 12-319-8(78307)
राजसैस्तामसैः सत्वैर्युक्तो मानुषमाप्नुयात्।
पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम्॥ 12-319-9(78308)
शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत्।
ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम्।
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्॥ 12-319-10(78309)
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप।
स एव प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते॥ 12-319-11(78310)
अचेतना चैव मता प्रकृतिश्चापि पार्थिव।
एतेनाधिष्ठिता चैव सृजते संहरत्यपि॥ 12-319-12(78311)
जनक उवाच। 12-319-13x(6511)
अनादिनिधनावेतावुभावेव महामते।
अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ॥ 12-319-13(78312)
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः॥ 12-319-14(78313)
त्वं हि विप्रेन्द्र कार्त्स्न्येन र्मोक्षधर्ममुपाससे।
साकल्पं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः॥ 12-319-15(78314)
निस्तत्वं केवलत्वं च विनाभावं तथैव च।
दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै॥ 12-319-16(78315)
तथैवोत्क्राणिणः स्थानं देहिनो वै विपद्यतः।
कालेन यद्धि प्राप्नोति स्थानं तत्प्रब्रवीहि मे॥ 12-319-17(78316)
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च।
अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम।
विदितं सर्वमेतत्ते पाणावामलकं यथा॥ ॥ 12-319-18(78317)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकत्रिशततमोऽध्यायः॥ 319॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-319-12 सच्चेतनश्चैप मतः प्रकृतिस्थश्च पार्थिवेति ट. ड. पाठः॥ 12-319-13 अप्रकम्प्यौ त्रणाव्रणाविति ट. ड. पाठः। अप्रकम्प्यौ वृषावृषाविति थ. पाठः॥ 12-319-16 अस्तित्वं केव त्वं चेति झ. पाठः॥ 12-319-17 देहिनोऽपि वियुज्यत इति ट. पाठः॥ 12-319-18 अनुक्तानि च तत्वेनेति ट. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|